ते हि प्र॒जाया॒ अभ॑रन्त॒ वि श्रवो॒ बृह॒स्पति॑र्वृष॒भः सोम॑जामयः । य॒ज्ञैरथ॑र्वा प्रथ॒मो वि धा॑रयद्दे॒वा दक्षै॒र्भृग॑व॒: सं चि॑कित्रिरे ॥
te hi prajāyā abharanta vi śravo bṛhaspatir vṛṣabhaḥ somajāmayaḥ | yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṁ cikitrire ||
ते । हि । प्र॒ऽजायाः॑ । अभ॑रन्त । वि । श्रवः॑ । बृह॒स्पतिः॑ । वृ॒ष॒भः । सोम॑ऽजामयः । य॒ज्ञैः । अथ॑र्वा । प्र॒थ॒मः । वि । धा॒र॒य॒त् । दे॒वाः । दक्षैः॑ । भृग॑वः । सम् । चि॒कि॒त्रि॒रे॒ ॥ १०.९२.१०